|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.98. अध्यायः 098
Mahabharata - Sabha Parva - Chapter Topics
निजनगरं गच्छतो युधिष्ठिरस्य मध्येमार्गं दूताह्वानेन पुनर्निवृत्त्य द्यूत सभाप्रवेशः॥ 1॥ अनुद्यूतेपि युधिष्ठिरस्य शकुनिना पराजयः॥ 2॥
Mahabharata - Sabha Parva - Chapter Text
वैशम्पायन उवाच॥
ततो व्यध्वगतं पार्थं प्रातिकामी युधिष्ठिरम्।
उवाच वचनाद्राज्ञो धृतराष्ट्रस्य धीमतः॥ 2-98-1(15360)
उपास्तीर्णा सभा राजन्नक्षानुप्त्वा युधिष्ठिर।
एहि पाण्डव दीव्येति पिता त्वाह नराधिपः॥ 2-98-2(15361)
युधिष्ठिर उवाच॥ 2-98-3x(1709)
धातुर्नियोगाद्भूतानि प्राप्नुवन्ति शुभाशुभम्।
न निवृत्तिस्तयोरस्ति देवतव्यं पुनर्यदि॥ 2-98-3(15362)
अक्षद्यूते समाह्वानं नियोगात्स्थविरस्य च।
जानन्नपि क्षयकरं नातिक्रमितुमुत्सहे॥ 2-98-4(15363)
वैशम्पायन उवाच॥ 2-98-5x(1710)
असम्भवो हेममयस्य जन्तो-
स्तथापि रामो लुलुभे मृगाय।
प्रायः समासन्नपराभवाणां
धियो विपर्यस्ततरा भवन्ति॥ 2-98-5(15364)
इति ब्रुवन्निववृते भ्रातृभिः सह पाण्डवः।
जानांश्च शकुनेर्मायां पार्थो द्यूतमियात्पुनः॥ 2-98-6(15365)
विविशुस्ते सभां तां तु पुनरेव महारथाः।
व्यथयन्ति स्म चेतांसि मुहृदां भरतर्षभाः॥ 2-98-7(15366)
यथोपजोषमासीनाः पुनर्द्यूतप्रवृत्तये।
सर्वलोकविनाशाय दैवेनोपनिपीडिताः॥ 2-98-8(15367)
शकुनिरुवाच॥ 2-98-9x(1711)
अमुञ्चत्स्थविरो यद्वो धनं पूजितमेव तत्।
महाधनं ग्लहं त्वेकं शृणु भो भरतर्षभ॥ 2-98-9(15368)
वयं वा द्वादशाब्दानि युष्माभिर्द्यूतनिर्जिताः।
प्रविशेम महारण्यं रौरवाजिनवाससः॥ 2-98-10(15369)
त्रयोदशं च स्वजनैरज्ञाताः परिवत्सरम्।
ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश॥ 2-98-11(15370)
अस्माभिर्निर्जिता यूयं वने द्वादश वत्सरान्।
वसध्वं कृष्णया सार्धमजिनैः प्रतिवासिताः॥ 2-98-12(15371)
त्रयोदशं च स्वजनैरज्ञाताः पिरवत्सरम्।
ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश॥ 2-98-13(15372)
त्रयोदशे च निर्वृत्ते पुनरेव यथोचितम्।
स्वराज्यं प्रतिपत्तव्यमितरैरथवेतरैः॥ 2-98-14(15373)
अनेन व्यवसायेन सहास्माभिर्युधिष्ठिर।
अक्षानुप्त्वा पुनर्द्यूतमेहि दीव्यस्व भारत॥ 2-98-15(15374)
अथ सभ्याः सभामध्ये समुच्छ्रितकरास्तदा।
ऊचुरुद्विग्नमनसः संवेगात्सर्व एव हि॥ 2-98-16(15375)
सभ्या ऊचुः। 2-98-17x(1712)
अहो धिग्बान्धवा नैनं बोधयन्ति महद्भयम्।
बुद्ध्या बुद्ध्येन्न वा बुद्ध्येदयं वै भरतर्षभ॥ 2-98-17(15376)
वैशम्पायन उवाच॥ 2-98-18x(1713)
जनप्रवादान्सुबहूञ्शृण्वन्नपि नराधिपः।
ह्रिया च धर्मसंयोगात्पार्थो द्यूतमियात्पुनः॥ 2-98-18(15377)
जानन्नापि महाबुद्धिः पुनर्द्यूतमवर्तयत्।
अप्यासन्नो विनाशः स्यात्कुरूणामितिचिन्तयन्॥ 2-98-19(15378)
युधिष्ठिर उवाच॥ 2-98-20x(1714)
कथं वै मद्विधो राजा स्वधर्ममनुपालयन्।
आहूतो विनिवर्तेत दीव्यामि शकुने त्वया॥ 2-98-20(15379)
शकुनिरुवाच॥ 2-98-21x(1715)
गवाश्वं बहुधेनुकमपर्यन्तमजाविकम्।
गजाः कोशो हिरण्यं च दासीदासाश्च सर्वशः॥ 2-98-21(15380)
हित्वा नो ग्लह एवैको वनवासाय पाण्डवाः।
यूयं वयं वा विजिता वसेम वनमाश्रिताः॥ 2-98-22(15381)
त्रयोदशं च वै वर्णमज्ञाताः स्वजनैस्तथा।
अनेन व्यवसायेन दीव्याम पुरुषर्षभाः। 2-98-23(15382)
समुत्क्षेपेण चैकेन वनवासाय भारत॥ 2-98-24(15383)
` वैशम्पायन उवाच॥ 2-98-24x(1716)
एवं दैवबलाविष्टो धर्मराजो युधिष्ठिरः।
भीष्मद्रोणाऽऽवार्यमाणो विदुरेण च धीमता॥ 2-98-24(15384)
युयुत्सुना कृपेणाथ सञ्जयेन च भारत।
गान्धार्या पृथया चैव भीमार्जुनयमैस्तथा॥ 2-98-25(15385)
विकर्णेन च वीरेण द्रौपद्या द्रौणिना तथा।
सोमदत्तेन च तथा बाह्लीकेन च धीमता॥ 2-98-26(15386)
वार्यमाणोपि सततं न च राजन्नियच्छति।
एवं संवार्यमाणोपि कौन्तेयो हितकाम्यया॥ 2-98-27(15387)
देवकार्यार्थसिद्ध्यर्थं मुहूर्तं कलिमाविशत्।
अविष्टः कलिना राजञ्छकुनिं प्रत्यभाषत॥ 2-98-28(15388)
एवं भवत्विति तदा वनवासाय दीव्यति'।
प्रतिजग्राह तं पार्थो ग्लहं जग्राह सौबलः॥
जितमित्येव शकुनिर्युधिष्ठिरमभाषत॥ ॥ 2-98-29(15389)
इति श्रीमन्महाभारते सभापर्वणि अनुद्यूतपर्वणि अष्टनवतितमोऽध्यायः॥ 98 ॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-98-16 संवेगादतिशयात्॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|